मध्यमव्यायोगे निर्दिष्टानि सांस्कृतिकमूल्यानि। आदिकालात् रामायणम् आदर्श: महाभारतच्च वास्ताविकं ग्रंथं वयं मन्यामहे। त्तत्रापि महाभारतार्थं तु उक्तं यत् “भारतं पञ्चमो वेद:।” महाभारत- मनेकानां साहित्यानां संग्रह: वर्तते । अस्मिन् ग्रन्थे आख्यानुपाख्यानञ्च वर्तते । अनेन ग्रन्थोऽयं बहूनां साहित्यकग्रंथानामुपजीव्यं वर्तते ।लौकिक संस्कृत साहित्ये अस्य ग्रन्थस्य महत्प्रभाव: दृश्यते। महामहिमराजशेखराचार्येण तु कथितं यत्- ‘नास्तिऽचौर: कविजन:’। अनेन न्यायेन पश्यामञ्चेत् ज्ञायते यत् महाकवि भासोऽपि महाभारतमाधारीकृत्य केचनानां रुपकाणां रचनामकरोत्। महाकविभासेन कृतानां स्वनानाम् परिशीलनेन इदं तु स्पष्टतया वक्तुं शक्यते यत् प्रत्येकस्य लेखकस्योपरी पूर्वतनस्य साहित्य प्रभाव:, तत्कालिन् समाजस्य संस्कृते: च प्रभाव: दृश्यते एव । अस्य साहित्यस्य प्रमुखं लक्ष्यं वर्तते यत् सामान्य मनुष्योऽपि सरलतया वैदिकवाङमयस्य भेदं विज्ञाय जीवनं संस्कारं कृत्वा च मुक्तिं प्राप्नुयात् । अनेनैवोदेश्येन महाभारतादि ग्रन्था: सरलशैल्यां लिखिता: सन्ति। येन समाजस्य विश्वस्य वा प्रत्येक: जन: अस्य ग्रन्थस्य अध्ययनेन धर्माचरणं कुर्यात् । महाभारते हिडिम्बवधपर्वणि नवमे अध्याये हिडिम्बवधस्य वृतान्त: विध्यते । एनं वृतान्तमाधारीकृत्य महाकविभासेन ‘मध्यमव्यायोग:’ इति रूपकं रचितम् । मया शोधपत्रेऽस्मिन् मध्यमव्यायोगे निर्दिष्टानां सांस्कृतिकमूल्यानामवलोकनं कर्तुं प्रयत्न: कृतोऽस्ति । वर्तमानकाले आधुनिककरणेन अस्माकं युवका: सांस्कृतिकमूल्येभ्य: विमुखा: दरीदृश्यन्ते। समस्या इदं अन्धकारमयभावे: सूचनं करोति । अधुना समाजे वयं पश्याम: यत् जना: परस्परं स्नेहभावेन, प्रेम्णा, आदरेण, सहृदयेन, एक्यैन च न व्यवहरन्ति । जनेषु स्नेह:, कारूण्यम्,आदर:, सत्कार:, समदृष्टि:, सद्भावञ्चेत्यादया: सद्गुणा: शेषमाना: सन्ति। अस्माभि: इयं समस्यां निवारयितुं यत्न: कर्तव्य:। केनचित प्रकारेणापि जनेषु सत्य, अहिंसा, प्रेम, सद्भाव:, प्रामाण्यम्, कारूण्यञ्चेत्यादया: सद्गुणा: पुनरानेतव्या: । जना: एतेषां सद्मूल्यानां प्रति कथञ्चिदपि सन्मुखा: भवेयु:। एतेषां मूल्यानां कृते प्रत्येकं जनं प्रोत्साहितं कर्तुं यत्न: कर्तव्य:।सद्मूल्यानि आचरितुं व्यक्तिना पूर्वं तु आत्मशोधनं कर्तव्यम्। पूर्वेभि: ऋषिभि: उपदिष्टानां मानवमूल्यानां प्रतिबिम्बं संस्कृतसाहित्ये विद्यते। संस्कृतसाहित्याधारेण वर्तमानकालिन युवकं सद्मूल्यानां दिशानिर्देशं कर्तुं मया शोधपत्रमयं लिखितमस्ति। साम्प्रतेषु युवकेषु सद्मूल्यानां पुनर्स्थापन भवेत् तदेव ममोदेश्य: ज्ञेय: । मध्यमव्यायोगस्य परिशीलनेन ज्ञायते यत् अत्र निर्दिष्टा: ब्राह्मणा: गोत्र, शाखा आदिभि: शब्दै: निर्दिष्टा: सन्ति । इमे द्विजा: उपनयनं धारयन्ति स्म । ‘भो’ इति शब्दोश्र्चारणादस्य ब्राहृमणत्वं विदितं भवति। यथा ‘भो: शब्दोञ्चारणादस्य ब्राह्मणोऽयं न संशय:।’1 इमे ब्राह्मणा: विद्वांस:, वेदज्ञा:, शीलगुणाञ्चासन् । यथा- ‘ब्राह्मण: श्रुतवान् वृध्द:, पुत्रं शीलगुणान्वितम् । पुरूषादस्य दत्वाहं कथं निवृतिमाप्नुयाम्।’2 इमे द्विजा: पृथिव्यां पूजनीया: आसन्।3 सर्वेष्वप्यपराधेषु इमे अवध्या: न दण्डनीया: च आसन् उक्तं यत् सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तम:।4 क्षत्रियाणां सम्पति: शौर्यम् आसीत्। शौर्येण सञ्चितं द्रव्यम् इमे क्षत्रिया: न संगृह्णान्ति किन्तु ब्राह्मणेभ्य: ददति स्म् । अपि च स्वापत्यानां कृते धनुषबाणं रक्षन्ति स्म । इत्येव तेषां धर्म: आसीत्। तत्कालीन् क्षत्रियेषु शौर्यम्, धृति:, विनयम्, दया, माधुर्यं, युध्दे पराक्रम: चेत्यादया: सद्गुणा: प्रमुखा: आसन् । क्षत्रिया: सर्वान् प्रजाजनान् ‘पुत्र:’ इति शब्देन सम्बोधयति स्म। इति तेषां वैशिष्ट्यमासीत् यथोक्तं यत् -‘सर्वा: प्रजा: क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते।’5 एकस्मिन् संवादे भीमेनोक्तं यत् मदर्थे ब्राह्मणा: खलु पूज्यतमा: यद्यपि क्षत्रियोऽहम्। मे शरीर विपर्येण ननु ब्राह्मणोऽयं रक्षामि।
यथा- ‘क्षत्रियकुलोत्पन्नोऽहम्। पूज्यतमा: खलु ब्राह्मणा:।’ 6 अनेन विवेचनेन ज्ञायते यत् तस्मिन् काले ब्राह्मण: पूजनीया: आसन्। यद्यपि ब्राह्मणानाम् उपरी यदा कदा संकटमापतति तदानीं भीम: सदृशा: क्षत्रिया: तेषां रक्षणं कुर्वन्ति स्म । मध्यमव्यायोगे भीमसदृशस्य पात्रस्य उदात्तभावस्य दर्शनं भवति । मध्यमव्यायोगे महाकवि भासेन पाण्डवा: युध्यप्रिया:, शरणागतवत्सला:, दीनपक्षणतिन: निर्दिष्टा: सन्ति । धटोत्कच: यदा भीमं प्रति आधानं करोति तदा भीम: तं प्रतिभाषते यत् ‘त्वं ब्राह्मणकुटुम्बं विमुच्य मां नय्।’ एवं क्षत्रिया: गोब्राह्मणानां रक्षका: आसन्। इदमत्र भीमेन सार्थकं कृतम्। प्रसंगेऽस्मिन् भीमस्य पात्रे वचनमूल्यस्य दर्शनं भवति। भीम: प्रकृत्या यावत् युद्यप्रिय:, पराक्रमी, शौर्योध्दत्तञ्च आसीत् तावदेव वचनबध्द क्षत्रियोऽपि लक्ष्यते। भीम: घटोत्कचं भाषते यत् ब्राह्मणपुत्रमध्यमस्य स्थाने अहं त्वया सह आगमिष्ये। किन्तु पञ्चात् भीमेन ज्ञातं यत् अयं खलु हिडिम्बाया: पुत्रोऽस्ति तदा कृत्रिमे युध्दे तं पराजयति किन्तु घटोत्कच: भीमं यदा स्मारयति यत् ‘भो: पुरूष ! पूर्व समयं स्मर।’7 एतच्छुत्वा भीम: स्वेच्छया तेन सह याति। महाकविना भासेन मध्यमव्यायोगे घटोत्कचं ‘राक्षसाग्नि:’कथितोऽस्ति। तथापि घटोत्कचे वरिष्ठानां प्रति आदरभावादि दृश्यते यथा-
यदा घटोत्कच: मध्यमपुत्रमाह्वयितुं ब्राह्मणं केशवदासं आदिशति तदा घटोत्कचस्य भाषणमिदं ब्राह्मणं अतिराक्षसी भाषते। किन्तु तदानीमेव घटोत्कच: अंगिकरोति यत् ननु मे प्रकृतिदोषऽयं यथा ‘अयं मे प्रकृतिदोष:।’ स्वकीय स्वभाव अंगीकरणेऽत्र तस्य विनम्रताया: दर्शनं भवति। घटोत्कच: मध्यमं मोचयितुं भीमस्य कथनं न अंगीकरोति सरलतया एष: भीमं भणति यत् -‘मुच्यतामिति विस्त्रब्धं ब्रवीति यदि मे पिता।’10 घटोत्कचस्य वाक्येऽस्मिन् उध्दताया: दर्शनं भवति। किन्तु भीम: पञ्चात् कथयति यत्- ‘अहो गुरूशुश्रूष: खल्वयं तपस्वी।’यदा मातु: हिडिम्बाया: सकाशात् तेन प्रतिज्ञायते यत् बलवानोऽयं खलु मे पिता तदानीं घटोत्कच: विनयी भूत्वा कथयति यत् ‘अज्ञानास्तु मया पूर्वं यद् भवान्नाभिवादित: । भीम: तं मातु: स्थानं बोधयन् वदति यत् ‘माता किल मनुष्याणां देवतानां च दैवतम्।’ अनेन संवादेन ज्ञायते यत् तस्मिन्काले मातु: स्थानं समाजे देवतुल्यं स्यात्। कथनमिदं घटोत्कचस्य व्यवहारेण भीमस्योद्गारेण चाभिज्ञायते। मध्यमव्यायोगे केशवदासोऽपि विकट परिस्थिति निवारक:,व्यवहारकुशल:, अनुभवी च प्रतिभाति। घटोत्कच: यदा तेषु ब्राह्मणेषु कोऽपि एकं याचते तदानीं प्रप्रथमं सैव तेन सह गन्तुकामो भवति ।असारयुक्तसंसारे असौ सर्वेभ्य: कर्मेभ्य: निवृत्य इदानीं कुटुम्बवरिष्ठभावेन आत्मबलिदानेन च स्वपरिवारं रक्षितुम् अत्युत्सुक: दृश्यते। केशवदासस्य इदमात्मसमर्पणं परिवारस्य वरिष्ठयोग्यं दृश्यते । घटोत्कच: यदा मध्यमपुत्रविषयकं तं पृच्छति तदानीं पुत्ररक्षक पितु: आत्मा क्षणमपि विलम्ब्य घटोत्कचं प्रतिभाषते यत् - ‘अति राक्षसं खलु ते वचनम्।’12 वाक्येऽस्मिन् केशवदासस्य पुत्रप्रेम: स्पष्टतया दरीदृश्यते। यदा ब्राह्मण: स्वात्मानं राक्षसरूप वह्नौ क्षिपितुं सिद्धौ भवति तदानीं ब्राह्मणपत्नि भाषते यत् ‘पतिमात्रधर्मिणी पतिव्रतेति नाम।’ ब्राह्मणपत्नि वदति यत्सांसारिक धर्मपथि अहं सर्वासु परिस्थितिसु पतिना सह आसम्। अधुना मम बलिदानेन भवतां परिवारस्य च रक्षणं कर्तुमिच्छामि। अत्र ब्राह्मणपत्न्या: बलिदानार्थम् औत्सुक्यं दृष्ट्वा घटोत्कच: ब्राह्मणभार्यां भाषते यत् - ‘न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या।’ घटोत्कचस्य अनेन संवादेन ज्ञायते यत् तस्मिन्काले स्त्रीणां वध: न भवति स्म। यदा बलिदानार्थं ज्येष्ठपुत्र: बलिदानार्थं सिध्दो भवति। तदानीं तेनोक्तं – ‘मम प्रार्णैगुरूप्राणानिच्छामि परिरक्षितुम्। रक्षणार्थे कुलस्यास्य भोक्तुमर्हति मां भवान्।’13 अपि च इदमपि वदति यत् – ‘आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते । यदा पिता कष्टमापतति तदानीं पुत्र: पितु: रक्षणार्थं पूर्वं तिष्ठति । एवं तस्मिन् काले ज्येष्ठपुत्र: वा पुत्रा: कर्तव्यनिष्ठा: आसन् । पितु: रक्षणार्थं कनिष्ठ: पुत्रोऽपि सिध्दो भवति । यथा - ‘किर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा।’इति कथित्वा आर्शीवचनं ददाति। एवमत्र कनिष्ठे पुत्रेऽपि आत्मसर्मपणस्य बलिदानस्य च भाव: दृश्यते । कनिष्ठपुत्रस्य मते ज्येष्ठभ्राता पिता तुल्य: ज्ञेय: । अत: ज्येष्ठानां रक्षणं मे कर्तव्यम् । यथा- ‘ज्येष्ठो भ्राता पितृसम: कथितो ब्रह्मवादिभि: । अपि च कनिष्ठमतेन संसारेऽस्मिन् ज्येष्ठैव कुले श्रेष्ठ: सैव मातपितृभ्य: प्रिय:। यथा- ‘ज्येष्ठ: श्रेष्ठ: कुले लोके पितृणां च सुसंप्रिय:। एतत् सर्वं श्रुत्वा मध्यम पुत्र: भणति यत् ज्येष्ठपुत्र: पित्रे प्रिय: कनिष्ठञ्च मात्रे उभयो: अहं काभ्यां प्रिय: ? यथा- ‘पित्रोरनिष्ट: कस्येदानीं प्रिय: ?’17 इत्युक्त्वा असौ स्वां धन्यं मन्यते यतोहि तस्य आत्मसमर्पणेन समग्र परिवारस्य रक्षणमभवत्। असौ वदति यत् –‘धन्योऽस्मि यद् गुरूप्राणा: स्वै: प्राणै: परिरक्षिता:। श्लोकेऽस्मिन् मध्यमपुत्रस्य दयनीय स्थिते: दर्शनं भवति । पित्रा ज्येष्ठपुत्र: प्रिय: कृत: मात्रा च कनिष्ठ: । प्रसंगेऽस्मिन् संसारस्य स्वार्थवृते: दर्शनं कारयित्वा महाकविना भासेन सभ्यताप्रियेण सभ्यताया: नूतनमालेखनं कृतमस्ति। निष्कर्ष:अनेन शोधपत्रेण इदं स्पष्टं भवति यत् जनेषु नम्रता, शीलम्, प्रसन्नता, धैर्यम् चेत्यादिनां गुणानां विकास: भवति एवमेव सांस्कृतिक मूल्यानि अपि यथा सदाचार:, सद्विचार:, सत्यता,शिष्टाचार:इत्यादिनां सद्मूल्यानां संवर्धनमपि भवति । भारतीय संस्कृतौ सेवाधर्म: परमोधर्म: कथितोऽस्ति यथा -‘सेवाधर्मो परमगहनो योगीनामपिऽगम्यम्।’ समाजे प्रत्येकस्य जनस्य कर्तव्यं भवति यत् वरिष्ठानाम्, मातपितृणाम्, पशुपक्षिणाञ्च रक्षणं करणीयम्। अस्य भावनाया: दर्शनं शोधपत्रेऽस्मिन् भवति। समाजे ब्राह्मणस्य स्थानं उच्चतमम् पूज्यतमञ्च आसीत् । ब्राह्मणानां सर्वेऽपराधा: क्षम्या: आसन्। क्षत्रिया: स्वधर्माचरणार्थं संस्कृते: रक्षणार्थं सर्वथा सर्वदा सिध्दा: आसन्। दुष्टेषु जनेषु अपि कारूण्य भावा:आसन्। मध्यमव्यायोगे वयं पश्याम: यत् ब्राह्मण परिवार: आत्मसर्मपणार्थं सिध्द: अभवत् तदानीं घटोत्कचस्य मुखात् शब्दा: निर्गच्छन्ति यत् वृध्द: स्त्रियञ्च अवध्या:। वाक्यमिदं ज्येष्ठस्य स्त्रीणाञ्च वधनिषेधं सूचयति। पतिव्रताणां स्त्रीणां कृते पत्येव तासां धर्म: आसीत्। पत्यु: कृते स्वसर्मपणम्, जीवनस्य बलिदानम्एतत्सर्वं स्त्रीणां कृते इष्टतमासीत्। घटोत्कच: राक्षस: सन् ब्राह्मणान् प्रति दयावान् आसीत् । एवं मध्यमव्यायोगस्य परिशीलनेन ज्ञायते यत् रूपकेऽस्मिन् महाकवि भासेन समाजस्य कृते अत्यावशकानि जीवनमूल्यानि निर्दिष्टानि सन्ति। +धनसुरा पीपल्स को. ओ. बेक लि. आर्ट्स तथा कोमर्स कोलेज, धनसुरा (गुजरात) केद्वाराआयोजित “संस्कृत साहित्ये रामायण च महाभारतौ भारतीय सांस्कृतिकमूल्यानि।” विषयक नेशनल सेमिनार दि. 9जनवरी, 2014प्रस्तुत आलेख संदर्भग्रन्था:-
***************************************************
र्डा. बलाभाई एस. रबारी, |
Copyright © 2012 - 2024 KCG. All Rights Reserved. | Powered By : Knowledge Consortium of Gujarat
Home | Archive | Advisory Committee | Contact us |